All posts

Dhyana Shlokas (Veda Adhyana Devatas)

Invocation of the Devatas of the Veda Adhyana corresponding to different deities

Script

Shlokas on Veda Vyasa


अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अभाललोचनः शंभुः भगवान् बादरायणः॥ १

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ २

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ ३

Shlokas on Veda-Adhyana Devatas

Veda-mata Gayatri


मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दुनिबद्धरत्नमकुटाम् तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयांकुशकशां शुभ्रं कपालं गदां
शंखं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

Medha-Dakshinamurti


वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानाम् ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥

Hayagriva


स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैरनुविहितहेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहि महः ॥

Dattatreya


दत्तात्रेयं परसुखमयं वेदगेयं ह्यमेयं
योगिध्येयं हृतनिजभयं स्वीकृतानेककायम् ।
दुष्टाऽगम्यं विततविजयं देवदैत्यर्षिवंद्यं
वन्दे नित्यं विहितविनयं चाव्ययं भावगम्यं ॥

All posts